top of page

गंगा स्तोत्रम् १० (ब्रह्मवैवर्तपुराणान्तर्गतम् श्वेतचम्पकवर्णाभां गङ्गां पापप्रणाशिनीम्) | ganga stotram 10

गङ्गास्तोत्रम् १० 

श्वेतचम्पकवर्णाभां गङ्गां पापप्रणाशिनीम् ।
कृष्णविग्रहसम्भूतां कृष्णतुल्यां परां सतीम् ॥ ९७॥

वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ।
शरत्पूर्णेन्दुशतकप्रभाजुष्टकलेवराम् ॥ ९८॥

ईषद्धासप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ।
नारायणप्रियां शान्तां सत्सौभाग्यसमन्विताम् ॥ ९९॥

बिभ्रतीं कबरीभारं मालतीमाल्यसंयुताम् ।
सिन्दूरबिन्दुललितां सार्द्धं चन्दनबिन्दुभिः ॥ १००॥

कस्तूरीपत्रकं गण्डे नानाचित्रसमन्वितम् ।
पक्वबिम्बसमानैकचार्वोष्ठपुटमुत्तमम् ॥ १०१॥

मुक्तापङ्क्तिप्रभाजुष्टदन्तपङ्क्तिमनोहराम् ।
सुचारुवक्रनयनां सकटाक्षमनोरमाम् ॥ १०२॥

कठिनं श्रीफलाकारं स्तनयुग्मं च बिभ्रतीम् ।
बृहच्छ्रोणीं सुकठिनां रम्भास्तम्भपरिष्कृताम् ॥ १०३॥

स्थलपद्मप्रभाजुष्टपादपद्मयुगन्धराम् ।
रत्नाभरणसंयुक्तं कुङ्कुमाक्तं सयावकम् ॥…