top of page
गुरु गंगाष्टकम् | guru ganga ashtakam
गुरुगङ्गाष्टकम्
श्रीगणेशाय नमः ।
मातर्नन्दिकतीर्थसुन्दरभवे शैवैरुप ास्ये शिवे
निःशेषाघनिवारिणि त्वमुदिरे सौन्दर्यरत्नाकरे ।
देवानीकसुसेविते सुखकरे संसारतापापहे
दीनं सुज्ञजनालिसेवितपदे त्वं मां पवित्रं कुरु ॥ १॥
रोगार्दितं संसृतितापतप्तं षट्कर्महीनं त्वघसम्प्लुतं माम् ।
न चापगान्या भुवने त्वदन्या नाघं प्रकर्तुं जननी च तां गतम् ॥ २॥
जगज्जननि त्वद्यशो भुवि महत्समुद्यत्सदा
जनावलि-पवित्रतां प्रकुरुतेऽत्र बिन्दुस्तव ।
इति श्रवणतो मतिर्मम तवाम्बुसंसेवने
पवित्रमकरोषि …