top of page

गोदावरीस्तोत्रम् २ (वासुदेवानन्दसरस्वतीविरचितम् या स्नानमात्राय नराय गोदा) | godavari stotram 2

गोदावरीस्तोत्रम् २ 

या स्नानमात्राय नराय गोदा गोदानपुण्याधिदृशिः कुगोदा ।
गोदासरैदा भुवि सौभगोदा गोदावरी साऽवतु नः सुगोदा ॥ १॥

या गौपवस्तेर्मुनिना हृताऽत्र या गौतमेन प्रथिता ततोऽत्र ।
या गौतमीत्यर्थनराश्वगोदा गोदावरी साऽवतु नः सुगोदा ॥ २॥

विनिर्गता त्र्यम्बकमस्तकाद्या स्नातुं समायान्ति यतोऽपि काद्या ।
काऽऽद्याधुनी दृक्सततप्रमोदा गोदावरी साऽवतु नः सुगोदा ॥ ३॥

गङ्गोद्गतिं राति मृताय रेवा तपःफलं दानफलं तथैव…
bottom of page