top of page
गोदास्तुतिः २ | godastuti 2
श्री गोदास्तुतिः २
सर्वं सहे तुलसिमूलकृतावतारे
श्रीविष्णुचित्तपरितोषितब ाल्यवृत्ते ।
श्रीरङ्गराजकरपद्मगृहीतपाणे
गोदे नमोऽस्तु सततं जगदम्ब तुभ्यम् ॥ १॥
नित्याभूषा निगमशिरसां निःसमोत्तुङ्गवार्ता
कान्तो यस्याः कचविलुलितैः कामुको माल्यरत्नैः ।
सूक्त्या यस्याः श्रुतिसुभगया सुप्रभाता धरित्री
सैषा देवी सकलजननी सिञ्चतां मामपाङ्गैः ॥ २॥
माता चेत्तुलसी पिता यदि तव श्रीविष्णुचित्तो महान्
भ्राता चेद्यतिशेखरः प्रियतमः श्रीरङ्गधामा यदि ।
ज्ञातारस्तनयास्त्वदुक्तिसरसस्तन्येन संवर्धिता
गोदे त्वं हि कथं त्वनन्यविभवा साधारणा श्रीरसि ॥ ३॥
कल्पादौ…bottom of page
