top of page
गोदास्तुतिः (वेदान्तदेशिकविरचिता) | godastuti
गोदास्तुतिः
(श्रीवेदान्तदेशिकविरचिता)
श्रीविष्णुचित्तकुलनन्दनकल्पवल्लीं
श्रीरङ्गराजहरिचन्दनयोगदृश्याम् ।
साक्षात्क्षमां करुणया कमलामिवान्यां
गोदामनन्यशरणः शरणं प्रपद्ये ॥ १॥
वैदेशिकः श्रुतिगिरामपि भूयसीनां
वर्णेषु माति महिमा न हि मादृशां ते ।
इत्थं विदन्तमपि मां सहसैव गोदे
मौनद्रुहो मुखरयन्ति गुणास्त्वदीयाः ॥ २॥
त्वत्प्रेयसः श्रवणयोरमृतायमानां
तुल्यां त्वदीयमणिनूपुरशिञ्जितानाम् ।
गोदे त्वमेव जननि त्वदभिष्टवार्हां
वाचं प्रसन्नमधुरां मम संविधेहि ॥ ३॥
कृष्णान्वयेन दधतीं यमुनानुभावं
तीर्थैर्यथावदवगाह्…