top of page

गोदास्तोत्रम् (वरदानन्दभारतीविरचितम्) | goda stotram

श्रीगोदास्तोत्रम् 

ॐ श्री
॥ श्रीशङ्कर ॥

            (पृथ्वी)
मुकन्दपदसम्भवे शिवकपर्दसंशोभिनि
      शिवे कलिमलान्तके परममङ्गले पावनि ।
नमामि चरणौ शुभावभयदौ नतानां तव
      शिशोर्मम नयाशिवं विलयमम्ब गोदावरि ॥ १॥

            (शार्दूलविक्रीडित)
आचार्येषु शिवावतारयतिराट्, साध्येषु निःश्रेयसम्
      स्वातन्त्र्यं सुखदायिवस्तुषु, मतेष्वद्वैतमित्याह्वयम् ।
शीलं सर्वगुणेषु भाति च यथा गोदावरि त्वं तथा
      सर्वासु प्रमुखापगासु वरदे श्रेष्ठा शुभा शोभसे ॥ २॥

    …
bottom of page