top of page

गोमतीमहिमा | gomati mahima

गोमतीमहिमा 
मातर्गोमति ! तावकीनपयसां पूरेषु मज्जन्ति ये
       तेऽन्ते दिव्यविभूतिसूतिसुभगस्वर्लोकसीमान्तरे ।
वातान्दोलितसिद्धसिन्धुलहरीसम्पर्कसान्द्रीभवन्
       मन्दारद्रुमपुष्पगन्धमधुरं प्रासादमध्यासते ॥ १॥

आस्तां कालकरालकल्मषभयाद् भीतेव काशर्य गता
       मध्येपात्रमुदूढसैकतभराकीर्णाऽवशीर्णामृता ।
गङ्गा वा यमुना नितान्तविषमां काष्ठां समालम्भिता-
       मातस्त्वं तु समाकृतिः खलु यथापूर्वं वरीवर्तसे ॥ २॥

या व्यालोलतरङ्गबाहु विकसन्मुग्धार विन्देक्षणं
       भौ जङ्गीं गतिमातनोति परितः साध्वी परा राजते ।
पीयूषादपि माधुरीमधिकयन्त्यारादुदाराशया
       साऽस्मत्पातकसातनाय भवतात्स्रोत…
bottom of page