top of page

चन्द्रभागास्तुतित्रिकम् (वासुदेवानन्दसरस्वतीविरचितम्) | chandra bhaga stuti trikam

चन्द्रभागास्तुतित्रिकम् 

पूर्वं नदी या प्रथितात्र भीमा भूमावलोकात्समभूदभीमा ।
यस्यास्तटे रक्षति चन्द्रभा गा हरिर्धुनी साऽवतु चन्द्रभागा ॥ १॥

या पाण्डुरङ्गस्य पुरीं वरिष्ठामावृत्य पूर्वाब्धिमगाद्गरिष्ठा ।
सा चन्द्रभागा त्रविधाघहन्त्री भवत्वजस्रं मम कामदात्री ॥ २॥

यथा हि पक्षार्धगचन्द्रभागास्तद्वद्धृताङ्गा खलु चन्द्रभागा ।
रागादिदोषान्विनिवत्र्य दान्ति ददातु मे चोपरतिं च शान्तिम् ॥ ३॥

इति श्रीवासुदेवानन्दसरस्वतीविरचितं चन्द्रभागास्तुतित्रिकं सम्पूर्णम् ।

bottom of page