top of page

तापीस्तोत्रम् (वासुदेवानन्दसरस्वतीविरचितम्) | Tapi stotram

तापीस्तोत्रम् 

छाया विवस्वद्दुहिता हितार्था पुरातनी त्वत्र धुनी कृतार्था ।
ययाऽऽस भूरन्यविभूषितापि तापीसरित्साऽवतु मां स्मृतापि ॥ १॥

तपती पतिमाप्तुमुद्गता वरविन्ध्याद्रिपदान्महोन्नता ।
प्रययौ नवयौवनाञ्चिता जलधिं पश्चिमकं ह्यवञ्चिता ॥ २॥

पुनानापि नानाजनानंहसोऽत्र पदं राति याति प्रशस्तं परत्र ।
यदीये प्रतीरेऽत्र पापी न तापी न कोपीयमस्मानवत्वत्र तापी ॥ ३॥

भुजङ्गप्रयातोपमा यद्गतिर्या मतिं नः पुनाना ददाना गतिं या ।
वरं पश्चिमाब्धि सुखेनोपमेये…
bottom of page