top of page
ताम्रपर्णीमाहात्म्यम् | Tamraparni mahatmyam, Part-03
त्रिंशोऽध्यायः
दीपिकेश्वरोद्भवः ।
१. श्रुणु ब्रह्मन् प्रव क्ष्यामि तदेव परमाद्भुतम् ।
सर्वपापक्षयकरं शृण्वतां हर्षवर्धनम् ॥
२. अत्र देवो महादेवः कृपया कस्यचिन्मूलेः ।
प्रसादाय महालिङ्गरूपी प्रादुरभूत् विभुः ॥
३. तदुत्सवदिदॄक्षूणां महतां त्रिदिवैकसाम् ।
समाजस्सर्वसिद्धानां गन्द्दर्वाप्सरसामपि ॥
४. आगताः पूर्वदिवसे शिवानुग्रहकाङ्क्षया ।
एते ते भवता दृष्टाः स्त्रियश्च पुरुषा अपि ॥
५. भवन्तं पुण्यतीर्थेषु सेवया समुपागतम् ।
इतोऽविदू…