top of page

ताम्रपर्ण्यष्टकम् (सा ताम्रपर्णी दुरितं धुनोतु) | Tamraparnyashtakam

श्रीताम्रपर्ण्यष्टकम् 
या पूर्ववाहिन्यपि मग्ननृणामपूर्ववाहिन्यघनाशनेऽत्र ।
भ्रूमापहाऽस्माकमपि भ्रमाड्या सा ताम्रपर्णी दुरितं धुनोतु ॥ १॥

माधुर्य नैर्मल्य गुणानुषङ्गात् नैजेन तोयेन समं विधत्ते ।
वाणीं धियं या श्रितमानवानां सा ताम्रपर्णी दुरितं धुनोतु ॥ २॥

या सप्तजन्मार्जित पापसङ्घनिबर्हणायैव नृणां नु सप्त ।
क्रोशान् वहन्ती समगात्पयोधिं सा ताम्रपर्णी दुरितं धुनोतु ॥ ३॥

कुल्यानकुल्यानपि या मनुष्यान् कुल्या स्वरूपेण बिभर्ति पापम् ।
निवार्य चैषामपवर्ग…
bottom of page