top of page
तुंगभद्रा आरात्रिकम् | Tungabhadra Aratrikam
तुङ्गादेव्याः आरात्रिकम्
पद्यावलिः ।
जय जय तुङ्गतरङ्गिणि, जय जय तुङ्गे मातः,
शृङ्गाचलकृतसङ्गे सकलैनोभङ्गे ॥ (जय तुङ्गे मातः)
मज्जज्जनसन्तारिणि विद्वज्जनपूज्ये (अम्ब)
शमदममुखगुणदायिनि नमतामभयकरि ॥ (जय तुङ्गे मातः)
भक्तजनैरुत्तीर्णे मधुरोदकपूर्णे (भृश)
शान्ततरङ्गाकीर्णे मां पाहि सुवर्णे ॥ (जय तुङ्गे मातः)
गङ्गामूलोद्भूते भद्रासहजाते (अम्ब)
पूरितवाञ्छितजाते तारितलोकतते ॥ (जय तुङ्गे मातः)
बुधवरसेवितपादे नतजनसन्मतिदे (अम्ब)
श्रीशङ्करमुखसद्गुरु सेवितनिजसलिले ॥ (जय तुङ्गे मातः)bottom of page
