top of page
तुंगभद्रा स्तुतिः २ (ब्रह्माण्डपुराणान्तर्गतम् वराहदेहसम्भूते गिरिजे पापभञ्जिनि) | tungabhadra stuti 2
तुङ्गभद्रास्तुतिः
श्रीविभाण्डक उवाच ।
वराहदेहसम्भूते गिरिजे पापभञ्जिनि ।
दर्शनान्मुक्तिदे देवि महापातकिनामपि ॥ १॥
वाग्देवी त्वं महालक्ष्मीः गिरिजासि शची तथा ।
प्रभा सूर्यस्य देवेशि मरीचिस्त्वं कलानिधेः ॥ २॥
पर्जन्यस्य यथा विद्युद्विष्णोर्माया त्वमेव हि ।
तृणगुल्मलतावृक्षाः सिद्धा देवा उदीरिताः ॥ ३॥
दृष्टा स्पृष्टा तथा पीता वन्दिता चावगाहिता ।
मुक्तिदे पापिनां देवि शतकृत्वो नमो नमः ॥ ४॥
माण्डव्य उवाच ।
नमस्ते तुङ्गभद्रायै नमस्ते…bottom of page
