top of page
तुंगाष्टकम् १ (वासुदेवानन्दसरस्वतीविरचितम् तुङ्गा तुङ्गतरङ्गवेगसुभगा गङ्गासमा निम्नगा) | tungashtakam 1
श्रीतुङ्गाष्टकम्
तुङ्गा तुङ्गतरङ्गवेगसुभगा गङ्गासमा निम्नगा
रोगान्ताऽवतु सह्यसंज्ञितनगाज्जातापि पूर्वाब्धिगा ।
रागाद्यान्तरदोषहृद्वरभगा वागादिमार्गातिगा
योगादीष्टसुसिद्धिदा हतभगा स्वङ्गा सुवेगापगा ॥ १॥
स्वसा कृष्णावेणीसरित उत वेणीवसुमणी-
प्रभापूतक्षोणीचकितवरवाणीसुसरणिः ।
अशेषाघश्रेणीहृदखिलमनोध्वान्ततरणिर्दृढा
स्वर्निश्रेणिर्जयति धरणीवस्त्ररमणी ॥ २॥
दृढं बध्वा क्षिप्ता भवजलनिधौ भद्रविधुता
भ्रमच्चित्तास्त्रस्ता उपगत सुपोता अपि गताः ।
अधोधस्तान्भ्रान्तान्परमकृपया वीक्ष्य तरणिः
स्वयं तुङ्गा गङ्गाभवदशुभभङ्गापहरणी ॥ ३॥
वर्धा सधर्मा मिलितात्र पूर्वतो भद्रा कुमुद्वत्यपि वारुणीतः ।
तन्मध्यदेशेऽखिलपापहारिणी व्यालोकि तुङ्गाऽखिलतापहारिणी ॥ ४॥
भद्रया राजते कीत्र्या या…