top of page

तुंगास्तवः तुङ्गाष्टकम् २ (श‍ृङ्गेरी चन्द्रशेखरभारती महास्वामिभिः कृतः किं वर्णयामि तव देवि महत्त्वमम्ब) | tungastavah tungashtakam 2

तुङ्गास्तवः 

किं वर्णयामि तव देवि महत्त्वमम्ब
यद्वेदगीतमहिमाऽपि सुरस्रवन्ती ।
सङ्गं स्वयं वितनुते कटके समेत्य
साकं त्वया वसति मासमपीह तुङ्गे ॥ १॥

यो मानवस्तव जले स्नपनं विधत्ते
किं भाग्यमस्य कथयामि मलघ्नि तुङ्गे ।
मद्रूपमेतु मनुजोऽयमिति प्रवादं
विष्ण्वीश्वरौ कुरुत आदिविनाशशून्यम् ॥ २॥

दुःखसम्भिन्नसुखदा देवास्तिष्ठन्तु भूरिशः ।
दुःखासम्भिन्नसुखदां तुङ्गभद्रां नमाम्यहम् ॥ ३॥

भक्तजनप्रसृतेयं करुणाधारा विभाति तुङ्गायाः ।
स्रोतोरूपं दधती स्नातृजनानां समस्तपापहरा ॥ ४॥

मज्जले स्नपनकर्तृनराणां…
bottom of page