top of page
नर्मदालहरी (वासुदेवानन्दसरस्वतीविरचितम्) | narmada Lahari
श्रीनर्मदालहरी
नर्मदे हरसम्भूते हरलिङ्गार् चनादृते ।
हरलिङ्गाञ्चिततटे जयाघं नर्मदे हर ॥
नमः प्रातर्मातर्गिरिशदुहितर्नर्मद उत ।
क्षपायां रेवे ते नम इतमते मेकलसुते ॥
नमो नित्यं सत्यं हि त उदकमत्यन्तकमकम् ।
हरत्याधिं सा त्वमखिलविषहे मेऽर्पय सुखम् ॥ १॥
महेशाङ्गोद्भूता सुरवरनराणामभिमता ।
युता सिद्धैर्याता प्रसभमिव पाश्चात्यजलधिम् ॥
वृता भीमेनैषा हृतभजकदोषा वरवृषा ।
सुभूषा सद्वेषा रुचिरवपुषा भात्यतिरुषा ॥ २॥
तटे यस्यास्तप्त्वा तप उपरिगैर्दुश्चरमरम् ।
वरं ह्यत्रेः…bottom of page
