top of page

नर्मदाष्टकम् १ (शङ्कराचार्यविरचितम् सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं) | Hymn to River Narmada 1

नर्मदाष्टकम् 
सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं
      द्विषत्सु पापजातजातकारिवारिसंयुतम् ।
कृतान्तदूतकालभूतभीतिहारिवर्मदे
      त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १॥

त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं
      कलौ मलौघभारहारिसर्वतीर्थनायकम् ।
सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदे
      त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ २॥

महागभीरनीरपूरपापधूतभूतलं
      ध्वनत्समस्तपातकारिदारितापदाचलम् ।
जगल्लये महाभये मृकण्डुसूनुहर्म्यदे
      त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ३ ॥

गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा
      मृकण्डुसूनुशौनकासुरारिसेवितं सदा ।
पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे
      त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ४॥

अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं
      सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् ।
वसिष्ठ…
bottom of page