top of page

नर्मदाष्टकम् २ (महेश्वरानन्दसरस्वतीविरचितं श्रीनर्मदे सकलदुःखहरे) | narmada ashtakam 2

नर्मदाष्टकम् 
श्रीनर्मदे सकल-दुःखहरे पवित्रे
     ईशान-नन्दिनि कृपाकरि देवि धन्ये ।
रेवे गिरीन्द्र-तनयातनये वदान्ये
     धर्मानुराग-रसिके सततं नमस्ते ॥ १॥

विन्ध्याद्रिमेकलसुते विदितप्रभावे
     शान्ते प्रशान्तजन-सेवितपादपद्मे ।
भक्तार्तिहारिणि मनोहर-दिव्यधारे
     सोमोद्भवे मयि निधेहि कृपाकटाक्षम् ॥ २॥

आमेकलादपर-सिन्धु-तरङ्गमाला
     यावद् बृहद् -विमल -वारि-विशालधारा ।
सर्वत्र धार्मिकजनाऽऽप्लुततीर्थदेशा
     श्रीनर्मदा दिशतु मे निजभक्तिमीशा ॥ ३॥

सर्वाः शिला यदनुषङ्गमवाप्य लोला
     विश्वेशरूपमधिगम्य चमत्कृताङ्गाः ।
पूज्या भवन्ति जगतां स-…
bottom of page