top of page
नर्मदास्तोत्रं मन्त्रगर्भ (वासुदेवानन्दसरस्वतीविरचितम्) | narmada stotram mantragarbha
श्रीनर्मदास्तोत्रम् मन्त्रगर्भ
वारिताऽनर्थसङ्घा या अनन्य नतमुक्तये ।
सुष्टुशर्मनिदानायै नद्यै पुम्मोहसंहृते ॥ १॥
देवर्षि दानवेड्यायै सूक्ष्मवस्तुदृशे नमः ।
वाक्यार्थायै सोमपुत्र्यै यातनाऽनलशान्तये ॥ २॥
नन्दायै नर्मदायै ते त्रिधाकर्मविशुद्धये ।
दयादमः स्थैर्यकर्त्र्यै संसिद्ध्यै देवतात्मने ॥ ३॥
सत्यसम्प्राप्तिकारिण्यै भूत्यै सन्तुष्टिहेतवे ।
रम्यायै तत्त्वरूपिण्यै तपस्व्यभ्यं तरात्मने ॥ ४॥
स्वच्छ स्वर्नद्यधिस्वाम्बु दमित त्रासिभीतये ।
तीव्रशर्महृते पुंहृत्तापघ्न्ये हितकीर्तये ॥ ५॥
कृतापदाविमोक्षायै त्रेधाधर्माङ्गमूर्तये ।
तपोदा यै तपःसिद्ध्यै यज्ञाङ्ग्यै विषभीहृते…bottom of page
