top of page

भागीरथीगद्यम् (श्रीमद्भागवतपुराणान्तर्गतम्) | bhagirathi gadyam

भागीरथीगद्यम् 
ॐ नमो भगवते वासुदेवाय ।
श्रीशुक उवाच -
तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो
वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणा-
न्तःप्रविष्टा या बाह्यजलधारा तच्चरणपङ्कजा-
वनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघ-
मलापहोपस्पर्शनामला साक्षाद्भगवत्पदी-
त्यनुपलक्षितवचोऽभिधीयमानातिमहता
कालेन युगसहस्रोपलक्षणेन दिवो
मूर्धन्यवततार यत्तद्विष्णुपदमाहुः ॥ १॥

यत्र ह वाव वीरव्रत औत्तानपादिः परमभागवतो-
ऽस्मत्कुलदेवताचरणारविन्दोदकमिति यामनुसवन-
मुत्कृष्यमाणभगवद्भक्तियोगेन दृढं क्लिद्यमानान्तर्हृदय
औत्कण्ठ्यविवशामीलितलोचनयुगलकुड्मल-
विगलितामलबाष्पकलयाभिव्यज्यमानरोमपुलक-
कुलकोऽधुनापि परमादरेण शिरसा बिभर्ति ॥ २॥

ततः सप्तर्षयस्तत्प्रभावाभिज्ञा यां ननु तपस
आत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि
वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपेक्षितान्या-
र्थात्मगतयो मुक्तिमिवागतां मुमुक्षव इव सबहुमान-
मद्यापि जटाजूटैरुद्वहन्ति ॥ ३॥

ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेना-
वतरन्तीन्दुमण्डलमावार्य ब्रह्मसदने निपतति ॥…
bottom of page