top of page
यमुनाञ्जलिः | yamunanjali
यमुनाञ्जलिः
हिमधवलहिमाद्रेर्यद्यपि त्वं प्रसूता
प्रथयसि यमुने त्वं कालि मानं जलौघैः ।
कथमिदमिति वेत्तुं न क्षमं तेन गत्वा
त्वदुदययमुनोत्रिर्देवि नासेवि येन ॥ १॥
उपलविषममार्गेणोत्प्लुतैस्स्यन्दितं ते
विहितहसितमुच्चैरुर्मिभिर्मर्मरैश्च ।
तटपथमधि पान्थीभूय पश्यन् जलौघं
त्वदुदययमुनोत्रिं गन्तुमेकस्समर्थः ॥ २॥
तटभुवि महिषाणां तत्र तत्रासितानां
ततिरपि तव दृश्या भ्रातृवाहान्वयानाम् ।
त्वयि बहुमतिभाजां स्वामिनो नस्स्वसेति
तव च बहुमतानां भ्रातृवाहप्रजेति ॥ ३॥
असितमहिषवृन्दैराश्रितानूपदेशैः
अनुदिनमवगाढैर्ग…bottom of page
