top of page
यमुनालहरी (दुर्गादत्तकृता) | yamuna Lahari
श्रीयमुनालहरी
वरौवर्तिश्यामा तरणितनया दीनशरणा
पदाप्तानाम न्दौ हरणविधिवैदग्धहृदया ।
प्रवृत्ता गोलोकाद्यदमृतसुधारामलहरा
पुनन्ती त्रैलोक्यं पुनरपि निजे धाम्नि विशति ॥ १॥
यदेकः सिद्धिनां किल जननि ! गोलोकसरणिः
प्रवृत्तं सन्तापं प्रशमयितुमारोग्यजनकम् ।
हृदञ्चिप्रोन्नत्यै मदुलहिमसिदाञ्जनमिदं
त्वदीयं कीलालं मम दुरितजालं जरयतु ॥ २॥
तमो दूरीकुर्वन् मद कलहमोहादिकगणं
तिरः कुर्वन् कामं अमुदितकुगर्वं हृदयतः ।
सकृदृष्टिं यातस्तरणितनयेऽयं तव शुभः
प्रवाहो नीरा…