top of page
यमुनाष्टकम् ११ नवरत्न (श्रीजिविरचितम् कदाचित्ते तीरे जननि जननी वाक्यममृतं) | Yamuna ashtakam 11
नवरत्नयमुनाष्टकस्तोत्रम्
कदाचित्ते तीरे जननि जननी वाक्यममृतं
गृहीत्वा शुद्धत्वं ध्रुवपदमगान्मातृसहितः ।
महिम्नः श्रुत्वा ते प्रचुरतरवित्तिं ध्रुवजनः
तपस्तप्त्वा सद्यः शरणमिति यातस्तवतटम् ॥ १॥
कदाचित्ते देव्याः सकलजनुरुत्तारणपयः
विहारस्थाने वै प्रकटिततरङ्गेः पटुतरम् ।
सदा स्वस्थैर्देवैः सरलहृदयैः सेविततमं
वयं पीत्वा कुर्म्मः प्रचुरकलुषं सम्प्रति हतम् ॥ २॥
कदाचिन्मे भाग्यात्तव तरणितीरे भवहरे !
महद्वृन्दाटव्यां किमपि जनन…bottom of page
