top of page

यमुनाष्टकम् ४ (यया तमीशवंशजः रघुनाथजीकृतम्) | yamunashtakam 4

श्रीयमुनाष्टकम् ४ 
यया तमीशवंशजः समापितो बृहद्धनं
मरुच्चलञ्जलप्रभूतवीचिविप्लुषां मिषात् ।
तदङ्घ्रिकञ्जभक्तियुक्तया सुदत्तमार्गया
कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ १॥

यदम्बुपानमात्रतोऽतिभक्तियुक्तचेतसां
कृतैनसामहो निजस्वभावतः कृपायुता ।
प्रधाव्य धर्मराजतो महद्भयं निवर्त्य सा
कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ २॥

यदीयनीरकेलितो दधार नन्दनन्दनः
समस्तसुन्दरीजने स्वभावमद्भुतं मुदा ।
परस्परावलोकनं विवर्धयन् सुदृष्टितः
कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ३॥

यदङ्घ्रिफुल्लपङ्कजेऽवनप्रभावतः सदा
समस्तभक्तसङ्ग्रहं पुनाति सा जगत्त्रयम् ।
गिरीशधारिसङ्गमप्रबोधसत्सुखासदं
कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः…
bottom of page