top of page
यमुनाष्टकम् ५ (या गोकुलागमन देवकीनन्दनजीकृतम्) | yamunashtakam 5
श्रीयमुनाष्टकम् ५
या गोकुलागमनसम्भ्रमद त्तमार्गा
कृष्णाय शौरिमुदकैरविभावयन्ती ।
स्रष्टुं तदङ्घ्रिकमलेऽभवदुत्तरङ्गा
सा मन्मनोरथशतं यमुना विधत्ताम् ॥ १॥
या नन्दसूनुमुरलीरवलीलयोद्यद्-
भावप्रभावगलदश्रुपरागमङ्घ्रिम् ।
उन्मीलिताब्जनयनाऽस्पृशदूर्मिदोर्भिः
सा मन्मनोरथशतं यमुना विधत्ताम् ॥ २॥
या गोकुलेशमुषितांशुकलज्जितान्त-
राकण्ठमग्ननवनन्दकुमारिकाणाम् ।
कम्पोद्गमं विदधती न विलम्बमैच्छत्
सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ३॥
या राधिकाऽधरपयोधरकामुकाय
तस्मै निकुञ्चनिलयं स्वकरैश्चकार ।
स्वच्छोचितातिमृदुवालुकभूवितानं
सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ४॥
या रासकेलिजनितश्रमहारिवारि-
क्रीडासु घोषवनितोच्छलदम्बुराशिः ।
नन्दात्मजं सुखयति स्म कृताभिषेकं
सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ५॥
या चञ्चदञ्चलदृशः…bottom of page
