top of page
यमुनाष्टकम् ९ (मातर्देवि कलिन्दभूधरसुते) | yamunashtakam 9
श्रीयमुनाष्टकम् ९
मातर्देवि कलिन्दभूधरसुते नीलाम्बुजश्यामल
स्निग्धोद्यद्विमलोर्मिताण्डवधरे तुभ्यं नमस्कुर्महे ।
त्वं तुर्याप्यसि यत्प्रिया मुररिपोस्तद्बाल्यतारुण्ययो-
र्लीलानामवधायिकान्यमहिषीवृन्देषु वन्द्याधिकम् ॥ १॥
लोकान्यान्कलिकालकीलितमहादुष्कर्मकूटाङ्कितान्-
नेनिक्ते दिवमुत्पतिष्यति हि सा गीर्वाणकूलङ्कषा ।
तन्मातस्त्वयि संसृतिप्रसृमरक्लेशाभिभूतं मनः
स्वर्निःश्रेणिमुपेतुमर्कतनये श्रद्धां निबध्नाति नः ॥ २॥
सोन्नादं निपतन्कलिन्दशिखरप्रोत्तुङ्गशृङ्गान्तरा-
द्गच्छन्प्राच्यमपनिधिं जननि सद्वारां प्रवाहस्तव ।
मध्येमार्गमवाप्तभूरिविषयांस्तत्कालमुन्मार्जयन्
दिश्यान्नः श्रियमुद्धुरां मरकतश्यामाभिरामद्युतिः ॥ ३॥
शय्योत्थायमजस्रमात्मसदनात्त्वां वीक्ष्य लक्ष्यां क्षणान्-
मातः प्रातरपोहयामि विततं दुष्पातकव्रा…bottom of page
