top of page

यमुनाष्टपदी (विठ्ठलेश्वरविरचिता) | yamunashtapadI

यमुनाष्टपदी 

नमो देवि यमुने नमो देवि यमुने
हर कृष्णमिलनान्तरायम् ।
निजनाथमार्गदायिनि कुमारी-
कामपूरिके कुरु भक्तिरायम् ॥ ध्रु०॥

मधपकुलकलितकमलीवलीव्यपदेश-
धारितश्रीकृष्णयुतभक्तहृदये ।
सततमतिशयितहरिभावना-
जाततत्सारूप्यगदितहृदये ॥ १॥

निजकूलभवविविधतरुकुसुम-
युतनीरशोभया विलसदलिवृन्दे ।
स्मारयसि गोपीवृन्दपूजित-
सरसमीशवपुरानन्दकन्दे ॥ २॥

उपरि बलदमलकमलारुण-
द्युतिरेणुपरिमलितजलभरेणामुना ।
व्रजयुवतिकुचकुम्भकुङ्कुमारुण-
मुरः स्मारयामि मारपितुरधुना ॥ ३॥

अधिरजनि हरिविहृतिमीक्षितुं
कुवलयाभिधसुभगनयनान्युशति तनुषे ।
नयनयुगमल्पमिति बहुतराणि
च तानि रसिकतानिधितया कुरुषे ॥ ४॥

रजनिजागरजनितरागरञ्जित-
नयनपङ्कजैरहनि हरिमीक्षसे ।
मकरन्दरभरमिषेणानन्दपूरिता
सततमिह हर्षाश्रु मुञ्चसे ॥ ५॥

तटगतानेकशुकसारिकामुनि-
गणस्तुतविविधगुणसीधुसागरे ।
सङ्गता सततमिह भक्तजन-
तापहृदि राजसे रासरससागरे ॥ ६॥

रतिभरश्रमजलोदितकमल-
परिमलव्रजयुवतिमोदे…
bottom of page