top of page
यमुनासहस्रनामस्तोत्रम् कालिन्दीसहस्रनामम् च (गर्गसंहितातः) | yamuna sahasranama stotram
श्री यमुना अपरनाम कालिन्दीसहस्रनामस्तोत्रम्
गर्गसंहितातः
मान्धातोवाच
नाम्नां सहस्रं कृष्णायाः सर्वसिद्धिकरं परम् ।
वद मां मुनिशार्दूल त्वं सर्वज्ञो निरामयः ॥ १॥
सौभरिरुवाच
नाम्नां सहस्रं कालिन्द्या मान्धातस्ते वदाम्यहम् ।
सर्वसिद्धिकरं दिव्यं श्रीकृष्णवशकारकम् ॥ २॥
विनियोगः ॥
अस्य श्रीकालिन्दीसहस्रनामस्तोत्रमन्त्रस्य सौभरिरृषिः ।
श्रीयमुना देवता । अनुष्टुप् छन्दः । मायाबीजमिति कीलकम् ।
रमाबीजमिति शक्तिः । श्री कालिन्दनन्दिनीप्रसादसिद्ध्यर्थे पाठे
विनियोगः ।
अथ ध्यानम् ॥
ॐ श्यामामम्भोजनेत्रां सघनघनरुचिं रत्नमञ्जीरकूजत्
काञ्चीकेयूरयुक्तां कनकमणिमये…bottom of page
