top of page

यमुनास्तवः | yamuna stava

श्रीयमुनास्तवः 

कलिन्दतनये देवि परमानन्दवर्धिनि ।
स्नामि ते सलिले सर्वापराधान् मां विमोचय ॥

चिदानन्दभानोः सदा नन्दसूनोः
     परप्रेमपात्री द्रवब्रह्मगात्री ।
अघानां लवित्री जगत्क्षेमदात्री
     पवित्रीक्रियान् नो वपुर्मित्रपुत्री ॥

जयति तरणिपुत्री धर्मराजस्वसा या
     कलयति मथुरायाः सख्यमत्येति गङ्गाम् ।
मुरहरदयिता तत्पादपद्मप्रसूतं
     वहति च मकरन्दं नीरपूरच्छलेन ॥

गङ्गादितीर्थपरिसेवितपादपद्मां
     गोलोकसौख्यरसपूरमहिं महिम्ना ।
आप्लाविताखिलसुधासु जलां सुखाब्धौ
     राधामुकुन्दमुदितां यमुनां नमामि ॥

इति श्रीयमुनास्तवः सम्पूर्णः ।

bottom of page