top of page
यमुनास्तोत्रम् (वासुदेवानन्दसरस्वतीविरचितम्) | yamuna stotram
यमुनास्तोत्रम्
यमुना शमनामरस्वसा व्रजत ीवास्ति निजस्वसा ।
गुरुधाम दिदृक्षुणायनेत्र मयालोकि हि दक्षिणायन ए ॥ १॥
कृष्णभर्तृपरिरम्भणेन या कृष्णभा किमभवत्तथापि वा ।
कृष्णतां गतमघेन मानवं कृष्णतां नयति रातु साऽभवम् ॥ २॥
आदित्यपुत्री तुहिनाद्रिपुत्री कलिन्दपुत्रीति जगत्प्रतीता ।
स्वानुद्दधारापि यमेन नीतान् सा पातु भक्तान् यमुनाघभीतान् ॥ ३॥
प्रालेयाद्रिर्निर्गता कृष्णकान्ता नानादेशान् या पुनानाप्यकान्ता ।
सस्नौ तोये विष्णुपद्या विशुद्धा तन्माहात्म्यं दर्शयन्ती किमद्धा ॥…bottom of page
