top of page
रामसुकुञ्जगामिनी | Ramasukunjagamini
रामसुकुञ्जगामिनी
स्मारं स्मारं जनिमृतिभयं जातनिर्वेदवृति-
र्ध्य ायं ध्यायं पशुपतिमुमाकान्तमन्तर्निषन्नम् ।
पायं पायं सपदि परमानन्दपीयूषधारां
भूयो भूयो निजगुरुपदाम्बोजयुग्मं नमामि ॥ १॥
गङ्गापूरप्रचलितजटासृस्त भोगेन्द्रभीता
मालिङ्गन्तीमचलतनयां सस्मितवीक्षमानः ।
लोलापाङ्गैः प्रणतजनता नन्दयञ्चन्द्रमौलि-
र्मोहध्वान्तं हरतु परमानन्दमूर्तिश्शिवो नः ॥ २॥
कमण्डलौ या कमलासनेन समानिता पूर्वमपूर्वतोया ।
त्रिविक्रमे विष्णुपदारविन्द सम्पूज्य याता हरमौलिभागम् ॥ ३॥
भगीरथः सागरगान्स्वपितृनुद्धर्तुं कामश्शिव सन्निधौ सः ।
आराधयामास सरिद्वरां तां …bottom of page
