top of page

वैन्यास्तोत्रम् (वासुदेवानन्दसरस्वतीविरचितम्) | vainya stotram

श्रीवैन्यास्तोत्रम् 

वैन्यार्तिहाभया सिन्धुः पातु पापविनाशिनी ।
दैन्याधिहा दयासिन्धुर्जन्तुतापविनाशिनी ॥ १॥

वैन्याख्यभक्तेन समाहृतेयं नदी यद्यश ईशमेयम् ।
ध्येयं महद्भिः कविभिश्च गेयं पेयं पयोऽस्या प्रपुनाति सेयम् ॥ २॥

अये वैन्ये धन्ये सुकृतिजनमान्ये जय महा-
रयेऽजन्ये दैन्येर्तिहृदसि वदान्ये त्वमघहा ॥

महाभङ्गे गङ्गेव नृदुरितभङ्गेह भवती
सती मत्र्योऽमत्र्योऽपि यदमृतपानेन भवति ॥ ३॥

वैन्याख्यगङ्गे जनतापभङ्गे प्रसीद मे देवि महातरङ्गे ।
पुनीहि मां सागस आर्तबन्धो बन्धोच्छिदे…
bottom of page