top of page

व्यासकृतंकावेरीस्तोत्रम् ३ (मातस्सह्यसमुद्भवे भवभयप्रध्वंसिनि) | vyasakritam kaveri stotram 3

व्यासकृतं कावेरीस्तोत्रम् 

श्रीगणेशाय नमः ।
मातस्सह्यसमुद्भवे भवभयप्रध्वंसिनि त्वत्तटे-
नित्यं संवसतां सतां करगता कैवल्यलक्ष्मीरिति ।
वादः कैमुतिकस्तवैष सकृदप्यावातिवीचीमरु-
न्नीचैर्यत्र भवन्ति तत्र वसतां सर्वे पुमथार्यतः ॥ १॥

भुग्नः पापभरेणमज्जतिजडो यः कश्चन त्वज्जले
संसाराम्बुनिधेर्नकेवलमसावुन्मज्जतिद्राग्स्त्वयम् ।
किन्तु स्वानवरान् परांश्चपुरुषानुत्तारयन्सह्यजे-
धन्यः किं बहना पुनाति सकलान् दृग्गोचरानप्यहो ॥ २॥

स्वल्पावग्रहशुष्कसस्य निचया ग्रीष्मोष्मसंशोषिता
शेषारामसरस्तटाकनिकराः के वा नदी मातृकाः ।
क्लिश्यन्ते बत ! नेतरे जनपदाश्चोलस्तु सन्तर्पितो
नित्यं सहयसुते त्वयाशतभवग्राहांस्तृणं मन्यते…
bottom of page