top of page

सरयूसहस्रनामस्तोत्रम् (भुशुण्डीरामायणान्तर्गतम्) | sarayu sahasra nama stotram from bhushundi ramayana

सरयूनामसहस्रनामस्तोत्रम्  भुषुण्डिरामायणान्तर्गतम् 

शुक उवाच -
साब्रवीज्जातमात्रैव भूमानं पुरुषं ततः ।
रामप्रेमोद्गमोद्भूतरोमाञ्चव्याप्तविग्रहम् ॥ १॥

सरयूरुवाच -
कि नु कुर्यामहे भूमन् किं च मे नाम निश्चितम् ।
भवत्पार्श्वेऽथवान्यत्र कुत्र मेऽवास्थितिर्भवेत् ॥ २॥

रामप्रेमोद्भवानन्दात्सुस्रुर्नेत्राणि नः पृथक् ।
तुदत्थबाष्पवारिभ्यः सम्भूता त्वं तरङ्गिणी ॥ ३॥

सरयूरिति ते नाम तस्मान्निश्चितमेव मे ।
नयनोत्थैर्जलैर्जाता तस्मान्नेत्रजलेति च ॥ ४॥

वसिष्ठश्च भवत्तीरे तपसा सिद्धिमेष्यति ।
वासिष्ठीति भुवि ख्यातं तव ना…
bottom of page