top of page

सरयूसुधा | saraya sudha

सरयूसुधा 
तेऽन्तः सत्त्वमुदञ्चयन्ति रचयन्त्यानन्दसान्द्रोदयं
      दौर्भाग्यं दलयन्ति निश्चलपदः सम्भुञ्जते सम्पदः ।
शय्योत्थायमदभ्रभक्तिभरितश्रद्धाविशुद्धाशया
      मातः! पातकपातकर्त्रि ! सरयु! त्वां ये भजन्त्यादरात् ॥ १॥

किं नागेशशिरोवतंसितशशिज्योत्स्नाछटा सञ्चिता
      किं वा व्याधिशमाय भूमिवलयं पीयूषधाराऽऽगता ।
उत्फुल्लामलपुण्डरीकपटलीसौन्दर्य सर्वंकषा
      मातस्तावकवारिपूरसरणिः स्नानाय मे जायताम् ॥ २॥

अश्रान्तं तव सन्निधौ निवसतः कूलेषु विश्राम्यतः
      पानीयं पिबतः क्रियां कलयतस्तत्त्वं परं ध्यायतः ।
उद्यत्प्रेमतरङ्गम्भगुरदृशा वीचिच्छटां पश्यत…
bottom of page