top of page
सरयू माहात्म्यम् (दशरथकृतम्) | sarayu mahatmyam
श्रीसरयू माहात्म्यम्
महारजदशरथ उवाच ।
मन्वन्तर सहस्त्रैस्तु काशीवासेन यत्फलम् ।
तत्फलं समवाप्नोति सरयू दर्शने कृते ॥ १॥
या गतिर्योगयुक्तानां वाराणस्यां तनुत्यजाम् ।
सा गतिः स्नान मात्रेण सरय्वां हरि वासरे ॥ २॥
पुष्करे तु नरो गत्वा कार्तिक्यां कृत्तिका दिने ।
तत्फलं समवाप्नोति सरयू दर्शने कृते ॥ ३॥
षष्ठि वर्ष सहस्राणि भागीरथ्यवगाहनात् ।
तत्फलं समवाप्नोति दृष्ट्वा दाशरथीं पुरीम् ॥ ४॥
निमिषन्निमिषार्धं…bottom of page
