top of page

सह्यजनवरत्नमालिका अथवा कावेरीनवरत्नमालिका | sahyajanava ratna malika

सह्यजनवरत्नमालिका अथवा कावेरीनवरत्नमालिका 

यत्पाथःकणवाहिमारुतलवस्पृष्टेषु दुष्टेष्वपि
प्रध्वंसं प्रबलैनसां विदुरिह प्राज्ञा भवाज्ञाजुषः ।
सिष्णासां त्वयि बिभ्रतो मम चिरात् कृष्णाधिके सह्यजे
निष्णाताऽसि न किं विगाहनकृतः पङ्कौघसङ्क्षालने ॥ १॥

कावेरि त्वत्कवारि प्रवहति सरितां सार्वभौमीह भूमौ
यत्रायं पुण्यदेशः स तु किमुत वृषाकप्यभीष्टस्थलं चेत् ।
काश्या तुल्यानि यानि त्वगणिषत षडप्यार्षगीर्षु स्थलानि
श्वेतारण्यं च तेष्वादिममिह वसतां को यमस्तस्य केऽमी ॥ २॥

कावेरि त्वद्वारिपूरोदरेऽस्मिन् स्नायं स्नायं…
bottom of page