top of page

सिद्धसरयूस्तोत्राष्टकम् (महेश्वरानन्दसरस्वतीविरचितम्) | siddhasaraya stotrashtakam

श्रीसिद्धसरयूस्तोत्राष्टकम् 
श्रीरामनाममहिमानमुदीरयन्ती
     तद्धाम-साम-गुण-गौरवमुद्गीरन्ती ।
आपूर-पूर-परिपूत-गभीरघोषा
     दोषाटवी-विघटनं सरयूस्तनोतु ॥ १॥

श्रीभारतीय-विजय-ध्वज-शैलराज-
     प्रोड्डीयमान-कलकेतन-कीर्तिवल्ली ।
श्रीमानसोत्तरसरः-प्रभवाद्यशक्ति-
     र्मूर्ता नदीशतनुता सरयूर्विभाति ॥ २॥

साकेत-गौरवगिरः परिबृंहयन्ती
     श्रीराघवेन्द्रमभितःकिल दर्शयन्ती ।
गङ्गां भृगुप्रवरतीर्थमनुस्रवन्ती
     धन्या पुनातु सरयूर्गिरिराजकन्या ॥ ३॥

इक्ष्वाकुमुख्य-रविवंश-समर्चिताङ्घ्रि-
     र्दिव्यावदात-जलराशि-लसत्प्रवाहा ।
पापौघ -काननघटा -दहनप्रभावा
     दारिद्र्य-दुःख-दमनी सरयूर्धिनोतु ॥ ४॥

त्रैलोक्यपुण्यमिव विद्रुतमेकनिष्ठं
     निस्तन्द्र-चन्द्रकिरणामृत-लोभनीयम् ।
सर्वार्थदं सकल-मङ्गल-दानदक्षं
     वन्दे प्रवाहमतुलं ललितं सरय्वाः ॥ ५॥

नित्यं समस्त-जन-तापहरं पवित्रं
     देवासुरार्चितमुदग्र -समग्रधार…
bottom of page