top of page
स्तवकल्पद्रुमः गङ्गाप्रणामः गङ्गास्तवः | stavakalpadruma
स्तवकल्पद्रुमः
श्रीगणेशाय नमः ।
श्रीगङ्गा-प्रणामः
नवद्वीपारामप्रकरकुसुमामोदवलितां
स्फुरद्रत्नश्रेणीचित-तट-सुतीर्थावलियुताम् ।
हरेगौर्रराङ्गस्यातुल-चरण-रेणूक्षित-तनुं
समुद्यत्-प्रेमोर्मीतुमुलहरिसङ्कीर्तन-रसैः ॥ १॥
प्रभुक्रीडापात्रीममृतरसगात्रीमृषितटां
शिवब्रह्मेन्द्रादीडित-महित-माहात्म्यमुखराम् ।
लसत्-किञ्जल्काम्भोजनि-मधुप-गर्भोरुकरुणा
महं वन्दे गङ्गामघ-निकर-भङ्गां जलकणाम् ॥ २॥
सद्यः पातकसंहन्त्री सद्यो दुःखविनाशिनी ।
सुखदा मोक्षदा गङ्गा गङ्गैव परमा गतिः ॥ ३॥
श्रीगङ्गास्नानमन्त्रः
विष्णुपाद-प्रसूताऽसि वैष्णवी विष्णुदेवता ।
पाहि नस्त्वेनसस्तस्मादाजन्ममरणान्तिकात् ॥ १॥
श्रीगङ्गास्तवः
गङ्गे समस्तजगदम्ब चलत्तरङ्गेऽ
नङ्गारिचारुतरमस्तकपुष्पमाले ।
कंसारिचारुचरणद्वयरेणुहर्षि
भक्त्या नमामि दुरितक्षयकारिणि त्वाम् ॥ १॥
मातः समस्तसुखदे प…