top of page
आनन्दसागरस्तवः (नीलकण्ठदीक्षितविरचितः) | Ananda sagara stava
आनन्दसागरस्तवः
विज्ञापनार्ह-विरलाव सरानवाप्त्या
मन्दोद्यमे मयि दवीयसि विश्वमातुः ।
अव्याजभूत-करुणा-पवनापविद्धा-
न्यन्तः स्मराम्यहमपाङ्ग-तरङ्गितानि ॥ १॥
आवेद्यतामविदितं किमथाप्यनुक्तं
वक्तव्यमान्तर-रुजोपशमाय नालम् ।
इत्यर्थ्यसे किमपि तच्छ्रवणे निधातुं
मातः प्रसीद मलयध्वज-पाण्ड्यकन्ये ॥ २॥
आक्रन्दितं रुदितमाहतमानने वा
कस्यार्द्रमस्तु हृदयं किमतः फलं वा ।
यस्या मनो द्रवति या जगतां स्वतन्त्रा
तस्यास्तवाम्ब पुरतः कथयामि खेदम् ॥ ३॥
पर्याकुले मनसि वाचि परिस्खलन्त्या-
मावर्तग…bottom of page
