top of page
आर्यापञ्चदशीस्तोत्रम् | Arya panchadashi stotram
आर्यापञ्चदशीस्तोत्रम्
श्रीगणेशाय नमः ।
करकलितचाप बाणां कल्हाराङ्घ्रिं नमामि कल्याणीम् ।
कन्दर्पदर्पजननीं कलुषहरां कामितार्थफलदात्रीम् ॥ १॥
एषा स्तोतुम् वाणी नैव समर्था तवेशि महिमानम् ।
शेषोऽप्यब्दसहस्रैः शेषं कृतवान् महेशि तव चरितम् ॥ २॥
ईशित्वादिसुपूज्यामिन्दिन्दिरकेशाभारसूल्लसिताम् ।
इन्दीवरदलनयनामीप्सितदात्रीं नमामि शर्वाणीम् ॥ ३॥
लसदरुणभानुकोटिद्युतिनिधिमम्बां सुरेन्द्रलक्ष्यपदाम् ।
ललितां नमामि बाले ललितशिवहृदयकमलकलहंसीम् ॥ ४॥
ह्रींकारबीजरूपे हिमगिरिकन्ये हरीन्द्रभववन्द्ये ।
हिमकरधवलच्छत्रे हिताय भव नः सदा महाराज्ञि ॥ ५॥
हर्षोत्करजनयित्री हसितज्योत्स्ना तवेयमनवद्ये…bottom of page
