top of page
इन्द्राक्षीकवचम् | Indrakshi kavacham
श्री इन्द्राक्षीकवचम्
ॐ श्रीगणेशाय नमः ।
देव्युवाच -
भगवान् देवदेवश लोकेश्वर जगत्पते ।
इन्द्राक्ष्याः कवचं ब्रूहि सर्वतत्त्वनिरूपिणम् ॥ १॥
श्रीभैरव उवाच
इन्द्राक्ष्याः कवचं पुण्यं सर्वतत्त्वनिरूपिणम् ।
जगच्चिन्तामणिं नाम सर्वमन्त्रैकसाधनम् ॥ २॥
यं धृत्वा कवचं ब्रह्माविष्णुर्भीमा शचीपतिः ।
यमोऽपि वरुणश्चैव कुबेरश्च दिगीश्वरः ॥ ३॥
ब्रह्मा सृजति विश्वं च विष्णुर्दैत्यनिषूदनः ।
शिवः संहरते विश्वं जिष्णुः सुमनसां पतिः ॥ ४॥
दिगीश्वराश्च दिक्पाला यथावदनु भूतले…