top of page
इन्द्राणीसप्तशती (गणपतिमुनिविरचिता) | Indrani saptashati Part-01
इन्द्राणीसप्तशती
॥ प्रथमं गायत्रं शतकम् ॥
॥ प्रथमः शशिवदनापादः ॥
हरिललने मे पथि तिमिराणि ।
हरदरहासद्युतिभिरिमानि ॥ १॥
अगतिमवीर्यामपगतधैर्याम् ।
अवतु शची मे जनिभुवमार्याम् ॥ २॥
शृणु करुणावत्यलघुमखर्वे ।
स्तवमहमार्यस्तव शचि कुर्वे ॥ ३॥
त्रिजगदतीतो विलसति नित्यः ।
अणुरणुतो यो भगवति सत्यः ॥ ४॥
त्वमखिलकार्येष्वयि धृतसक्तिः ।
उरुगतिरस्य प्रभुतमशक्तिः ॥…
bottom of page
