top of page

कात्यायन्यष्टकम् | Katyayanyashtakam

कात्यायन्यष्टकम् 

श्रीगणेशाय नमः ।
अवर्षिसंज्ञं पुरमस्ति लोके कात्यायनी तत्र विराजते या ।
प्रसाददा या प्रतिभा तदीया सा छत्रपुर्यां जयतीह गेया ॥ १॥

त्वमस्य भिन्नैव विभासि तस्यास्तेजस्विनी दीपजदीपकल्पा ।
कात्यायनी स्वाश्रितदुःखहर्त्री पवित्रगात्री मतिमानदात्री ॥ २॥

ब्रह्मोरुवेतालकसिंहदाढोसुभैरवैरग्निगणाभिधेन ।
संसेव्यमाना गणपत्यभिख्या युजा च देवि स्वगणैरिहासि ॥ ३॥

गोत्रेषु जातैर्जमदग्निभारद्वाजाऽत्रिसत्काश्यपकौशिकानाम् ।
कौण्डिन्यवत्सान्वयजैश्च विप्रैर्निजैर्निषेव्ये वरदे नमस्ते ॥ ४॥

भजामि गोक्षीरकृताभिषेके रक्ताम्बरे रक्तसुचन्दनाक्ते ।
त्वां बिल्वपत्रीशुभदामशोभे…
bottom of page