top of page
गोसहस्रनामस्तोत्रम् (स्वामिरामभद्राचार्यविरचितम्) | Go sahasra nama stotram
श्रीगोसहस्रनामस्तोत्रम्
॥ श्रीमद्राघवो विजयते ॥
॥ जगद्गुरुश्रीमदाद्यरामानन्दाचार्याय नमः ॥
॥ श्रीगोमात्रे नमः ॥
अथ श्रीगोसहस्रनामस्तोत्रम् ।
अथ श्रीचित्रकूटतुलसीपीठाधीश्वरजगद्गुरुरामानन्दाचार्यमहाकवि-
स्वामिरामभद्राचार्यविरचितं श्रीगोसहस्रनामस्तोत्रं प्रारभ्यते
अथ ध्यानम् ।
सीतारामकृपासुधाश्रिततनुं वात्सल्यमन्दाकिनीं
देवीं देवशरीरिणीं भगवतीं सम्पूजितां दैवतैः ।
हुङ्कारार्दितपापतापनिवहां गोपालसम्पालितां
गोविन्दार्चितपङ्कजाङ्घ्रिमनघां ध्यायामि गोमातरम् ॥
इति ध्यानम् ।
नित्यानन्दजयौ शिष्यौ जगद्गुरुपरायणौ ।
पप्रच्छतुश्चित्रकूटतुलसीपीठवल्लभम् ॥
जगद्गुरुं रामभद्राचार्यं शास्त्रविशारदम् ।
रामानन्दपदोपात्तसिंहासनमघापहम् ॥
शिष्यावूचतुः ।
भगवञ्छ्रोतुमिच्छावः श्रीमद्वदनपङ्कजात् ।
सर्वशास्त्ररहस्यं यत्स्तोत्रं पुण्यकरं शि…bottom of page
