top of page
गोसावित्रीस्तोत्रम् (महाभारतान्तर्गत्रम्) | Go Savitri stotram
गोसावित्रीस्तोत्रम्
नारायणं नमस ्कृत्य देवीं त्रिभुवनेश्वरीम् ।
गोसावित्रीं प्रवक्ष्यामि व्यासेनोक्तं सनातनीम् ॥ १॥
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ।
गवां निःश्वसितं वेदाः सषडङ्गपदक्रमाः ॥ २॥
शीक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा ।
एतासामग्रशृङ्गेषु इन्द्रविष्णू स्वयंस्थितौ ॥ ३॥
शिरो ब्रह्मा गुरुः स्कन्धे ललाटे वृषभध्वजः ।
कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ ॥ ४॥
दंष्ट्रेषु मरुतो देवा जिह्वायां च सरस्वती ।
कण्ठे च वरुणो देवो…bottom of page
