top of page
जानकीस्तवराजः | Janaki stavarajah
श्रीजानकीस्तवराजः
श्रीगणेशाय नमः ॥
अथ मङ्गलाचरणम् ।
ॐ वक्रतुण ्डमहाकाय कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ १॥
ॐ सर्वरूपमयीदेवी सर्वं देवीमयं जगत् ।
अतोऽहं विश्वरूपं तां नमामि परमेश्वरीम् ॥ २॥
कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं
नितम्बजितभूधरां सुरनितम्बिनीसेविताम् ।
नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ३॥
अशेषसंसारविहारहीनमादित्यगं पूर्णसुखाभिरामम् ।
समस्तसाक्षिं तमसः परस्तान्नारायणं विष्णुमहं भजामि ॥ ४॥
यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो
बौद्धा बुद्ध इति प्रमाणपटवः…bottom of page
