top of page

ज्वालामुखीस्तोत्रम् १ (तारं यो भजते) | Jvalamukhi stotram 1

श्रीज्वालामुखीस्तोत्रम् 
श्रीगणेशाय नमः । श्रीभैरव उवाच ।
तारं यो भजते मातर्बीजं तव सुधाकरम् ।
पारावारसुता नित्यं निश्चला तद्गृहे वसेत् ॥ १॥

शून्यं यो दहनाधिरूढममलं वामाक्षिसंसेवितं
     सेन्दुं बिन्दुयुतं भवानि वरदे स्वान्ते स्मरेत् साधकः ।
मूकस्यापि सुरेन्द्रसिन्धुजलवद्वाग्देवता भारती
     गद्यः पद्यमयीं निरर्गलतरा मातर्मुखे तिष्ठति ॥ २॥

शुभं वह्न्यारूढं मतियुतमनल्पेष्टफलदं
     सबिन्द्वीन्दुं मन्दो यदि जपति बीजं तव प्रियम…
bottom of page