top of page

ज्वालामुखीस्तोत्रम् २ (नताः स्तुतिपराः सर्वे) | Jvalamukhi stotram 2

ज्वालामुखीस्तोत्रम् 
ॐ नताः स्तुतिपराः सर्वे यस्या नित्यं दिवौकसः ।
तमो हृत्वा शङ्करस्य भूत्यै भूयात्सदाशिवा ॥ १॥

श्रीसुन्दरीं जगद्धात्रीं ज्वालाव्याप्तदिगन्तराम् ।
सुरैः सिद्धैः स्तुतां भूपैः सुमुखीं नौम्यहं शिवाम् ॥ २॥

दैत्यानां भटकोटिकोटिमुकुटाटोपानधः कुर्वतीं
     विघ्नानां कटकान्यतीव कटकान्यापाटयन्तीं स्फुटम् ।
भक्तानामभयं वरं च दधतीं शान्तात्मनां सर्वदा
     षड्वक्त्रेण जितां क्रियाविरहतो ज्वालामुखीं नौम्यहम् ॥ ३॥

ब्रह्माणं मधुकैटभौ वधपरौ सन्त्रासयन्तौ परं
     ना…
bottom of page