top of page

तुरजास्तवराजः अथवा तुलजास्तवराजः तुळजास्तवराजः (स्कन्दपुराणान्तर्गतः) | Tulaja stavarajah

श्रीतुरजास्तवराजः 

कथं रामेण सादेवी स्तुतादेववरोत्तम ।
सहस्रनामभिश्चैव पूजिता तद्वदस्वमे ॥ १॥

श्रीशङ्कर उवाच -
प्राप्यतं यामुनं शैलं रामचन्द्रः सलक्ष्मणः ।
यावश्चरति शैलेन्द्रे तावत्दृष्टाम्बिका शिवाम् ॥ २॥

ज्ञात्वातां जननीं रामो लक्ष्मणेनापि संयुतः
साष्टाङ्गप्रणिपत्यादौ स्तोतुं चैव प्रचक्रमे ॥ ३॥

श्रीरामचन्द्र उवाच -
नमामि त्वरितां देवि सुन्दरां सुभगां सुखाम् ।
नानारूप धरामाद्यां सर्वप्राणिहितेरताम् ॥ ४॥

षट्चक्र पुत्र निलयां सहस्रा रालयां पराम् ।
नागरूपां कुण्डलिनीमम्बादेवीं…
bottom of page